तद् बलं ज्वलितं दृष्ट्वा वरुण: कृष्णमब्रवीत्।।71।।
स्मर स्वप्रकृतिं पूर्वामव्यक्तां व्यदक्तलक्षणाम्।
तमो जहि महाभाग तमसा मुह्यसे कथम्।।72।।
सत्त्वस्थो नित्यमासीस्त्वं योगीश्वर महामते।
पंचभूताश्रयान् दोषानहंकारं च वर्जय।।73।।
या या ते वैष्णवी मूर्तिस्तस्या जयेष्ठो ह्यहं तव।
ज्येष्ठसभावेन मान्यं तु किं मां त्वंष दग्धु मिच्छुसि।।74।।
नाग्निर्विक्रमते ह्यग्रौ त्येज कोपं युधां वर।
त्वयि न प्रभविष्यामि जगत: प्रभवो ह्यसि।।75।।