ततोऽस्त्रं वैष्णवं घोरमभिमन्त्रयाहवे स्थित:।
वासुदेवोऽब्रवीद् वाक्यं प्रमुखे तस्यो धीमत:।।66।।
इदमस्त्रं महाघोरं वैष्णवं शत्रुसूदनम्।
मयोद्यतं वधार्थं ते तिष्ठेदानीं स्थिरो भव।।67।।
ततोऽस्त्रं वरुणो देवो ह्यस्त्रं वैष्णवमुद्यत:।
वारुणास्रेधाण संयोज्य विननाद महाबल:।।68।।
तस्यास्त्रे वितता ह्यापो वरुणस्य विनि:सृता:।
वैष्णावास्त्रस्य शमने वर्तते समितिंजय:।।69।।
आपस्तु वारुणास्तत्र क्षिप्ता: क्षिप्ता ज्वलन्ति वै।
दह्यन्ते वारुणास्तत्र ततोऽस्त्रे ज्वलिते पुन:।।70।।
वैष्णवे तु महावीर्ये दिशो भीता विदुद्रुवु:।