एते चक्रधराश्चैव तान् वन्दध्वं च सर्वश:।
सागराश्च ह्रदाश्चैव मत्प्रियार्थमिहागता:।।126।।
दिशश्च विदिशश्चैव वन्दमध्वं च यथाक्रमम्।
वासुकिप्रमुखाश्चैव नागा वै सुमहाबला:।।127।।
गावश्च् मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम्।
ज्योतींषि सह नक्षत्रैर्यक्षराक्षसकिंनरै:।।128।।
आगता मत्प्रियार्थ वै वन्दीध्वंत च यथाक्रमम्।
वासुदेववच: श्रुत्वा कुमारा: प्रणता: स्थिता:।।129।।
यथाक्रमेण सर्वेषां देवतानां महात्मनाम्।
सर्वान् दिवौकसो दृष्ट्वा पौरा विस्मयमागता:।।130।।
पूजार्थमथ स्मरान्न प्रगृह्य द्रुतमागता:।