हंसर्षभमृगैर्नागैर्वाजिसारसबर्हिणै:।।121।।
भास्वन्ति तानि दृश्यन्तेे विमानानि सहस्रमश:।
अथ कृष्णोऽब्रवीद् वाक्यं कुमारांस्तानसहस्रश:।
प्रद्युम्नादीन् समस्तांस्तु श्लरक्ष्णं मधुरया गिरा।।122।।
एतो रुद्रास्तथाऽऽदित्या वसवोऽथाश्विनावपि।
साध्या देवास्तथान्ये च वन्दधवं च यथाक्रमम्।।123।।
सहस्राक्षं महाभागं दानवानां भयंकरम्।
वन्दध्वं सहिता: शक्रं सगणं नागवाहनम्।।124।।
सप्तर्षयो महाभागा भृग्वांगिरसमाश्रिता:।
ऋषयश्च महात्मानो वन्दध्वं च यथाक्रमम्।।125।।