अहो सुमहदाश्चर्यं वासुदेवस्य संश्रयात्।।131।।
प्राप्यते यदिहास्माभिरिति वाचश्चरन्त्युर त।
ततश्चन्दनचूर्णैश्च गन्धपुष्पैश्च् सर्वश:।।132।।
किरन्ति पौरा: सर्वांस्तान् पूजयन्तो दिवौकस:।
लाजै: प्रणामैर्धूपैश्च वाद्यध्वननियमैस्तथा।।133।।
द्वारिकावासिन: सर्वे पूजयन्ति दिवौकस:।
आहुकं वासुदेवं च साम्बं च यदुनन्दनम्।।134।।
सात्यकिं चोल्मुकं चैव विपृथुं च महाबलम्।
अक्रूरं च महाभाग तथा निशठमेव च।।135।।
एतानपरिष्वकज्य तदा मूर्ध्नि चाघ्राय वासव:।