ततो देवेषु नर्दत्सुं वासुदेव: प्रतापवान्।
पुनश्चक्रं स जग्राह दैत्यान्तकरणं रणे।।21।।
व्याविध्यमाने चक्रे तु कृष्णेनाप्रतिमौजसा।
कुमाररक्षणार्थाय बिभ्रन्ती सुतनुं तदा।।22।।
दिग्वासा देववचनात् प्रविष्टा् तत्र कोटवी।
लम्बमाना महाभागा भागो देव्यास्तथाष्टम:।
चित्रा कनकशक्तिस्तु सा च नग्ना् स्थितान्तरे।।23।।
अथान्तरात् कुमारस्य देवीं दृष्ट्वा महाभुज:।
परांगमुखस्ततो वाक्यमुवाच मधुसूदन:।।24।।
श्रीभगवानुवाच
अपगच्छापगच्छ् त्वं धिक् त्वामिति वचोऽब्रवीत्।
किमेवं कुरुषे विघ्नंत निश्चितस्यं वधं प्रति।।25।।