वैशम्पायन उवाच
श्रुत्वैवं वचनं तस्य कोटवी तु तदा विभो:।
नैव वास: समाधत्ते कुमारपरिरक्षणात्।।26।।
श्रीभगवानुवाच
अपवाह्य गुहं शीघ्रमपयाहि रणाजिरात्।
स्वास्ति ह्येवं भवेदद्य योत्स्यतो योत्स्याता मया।।27।।
तां च दृष्ट्वा् स्थितां देवो हरि: संग्राममूर्धनि।
संजहार ततश्चक्रं भगवान् वासवानुज:।।28।।
एवं कृते तु कृष्णेन देवदेवेन धीमता।
अपवाह्य गुहं देवी हरसांनिध्यमागता।।29।।
एतस्मिन्नन्तरे चैव वर्तमाने महाभये।
कुमारे रक्षिते देव्या बाणस्तं देशमाययौ।।30।।