तेजसा तेन संयुक्तं ज्वलन्निव च भास्कर:।
वपुषा तेज आदत्ते बाणस्य प्रमुखे स्थितम्।।106।।
ज्ञात्वाजतितेजसा चक्रं कृष्णेनाभ्युदितं रणे।
अप्रमेयं ह्यविहतं रुद्राणी चाब्रवीच्छिवम्।।107।।
अजेयमेतत् त्रैलोक्ये चक्रं कृष्णेंन धार्यते।
बाणं त्रायस्व् देव त्वं यावच्चक्रं न मुंचति।।108।।
ततस्त्र्यक्षो वच: श्रुत्वा देवीं लम्बामथाब्रवीत्।
गच्छैहि लम्बे शीघ्रं त्वंव बाणसंरक्षणं प्रति।।109।।
ततो योगं समाधाय अदृश्या हितवत्सुता।
कृष्णस्यैकस्य तद्रूपं दर्शन्ती पार्श्वेमागता।।110।।