प्रमाथगणशेषं तु तदनीकमतिष्ठ्त।
भग्नावशेषं युद्धाय पुनश्चक्रे मनस्तदा।।11।।
कुम्भाण्डो नाम बाणस्य सखामात्यश्च वीर्यवान्।
भग्नं स्वंबलमालोक्य इदं वचनमब्रवीत्।।12।।
एष बाण: स्थितो युद्धे शंकरोऽयं गुहस्तथा।
किमर्थं बलमुत्सृज्य भवन्तो यान्ति मोहिता:।।13।।
प्राणांस्त्यक्त्वा पलायन्ते सर्वे दानवपुंगवा:।
एवं कुम्भामण्ड्वाक्यंं ते श्रृण्वान्तो भयविह्वला:।
चक्राग्निभयवित्रस्ता: सर्वे यान्ति दिशो दश ।।14।।
भग्नं बलं ततो दृष्ट्वा कृष्णेनामिततेजसा।
संरक्तनयन: स्थाणुर्युद्धाय पर्यवर्तत।।15।।