तां दीर्यमाणां महतीं नानाप्रहरणार्दिताम्।
सेनां बाण: समासाद्य वारयन् वाक्यमब्रवीत्।।6।।
लाघवं समुपागम्य किमर्थं भयविक्लवा:।
दैत्यवंशसमुत्पन्ना: पलायध्वं महाहवात्।।7।।
कवचासिगदाप्रासखड्चर्मपरश्वधान्।
उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्त्तरिक्षगा:।।8।।
स्वजातिं चैव भावं च हरसंसर्गमेव च ।
मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थित:।।9।।
एवमुच्चरितं वाक्यं श्रृण्वन्तस्तदचिन्तयन्।
अपाक्रामन्त ते सर्वे दानवा भयमोहिता:।।10।।