सहस्रणबाहो: समरे द्विबाहु: समवस्थित:।
न चिन्तयति ते वीर्यमयं वीर्यमदान्वित:।।191।।
उचितं यदि ते राजन् ज्ञेयो वीर्यबलान्वित:।
कन्या चेयं न चान्यस्य: निर्यात्ये तेन संगता।।192।।
यदि चेष्ट तम: कश्चिदयं वंशे महात्मनाम्।
तत: पूजामयं वीर: प्राप्स्यत्ते चासुरोत्तम।।193।।
रक्ष्यतामिति चोक्त्वैव तथास्त्विति च तस्थिवान्।
एवमुक्ते तु वचने कुम्भाण्ड बाण महात्मना।।194।।
तथेत्याह च कुम्भाण्डं बाण: शत्रुनिषूदन:।
संरक्षिणस्तेतो दत्त्वा अनिरुद्धस्य धीमत:।।195।।
ययौ स्वमेव भवनं बले: पुत्रो महायशा:।