संयतं मायया दृष्ट्वा अनिरुद्धं महाबलम्।।196।।
ऋषीणां नारद: श्रेष्ठोरऽव्रजद् द्वारवतीं प्रति।
ततो ह्याकाशमार्गेण मुनिर्द्वारवती गत:।।197।।
गते ऋषीणां प्रवरे सोऽनिरुद्धो व्यचिन्तयत्।
नष्टोऽयं दानव: क्रूरो युद्धमेष्यत्यसंशय:।।198।।
स गत्वा नारदस्तत्र शंखचक्रगदाधरम्।
ज्ञापयिष्यति तत्त्वेन इममर्थं न संशय:।।199।।
नागैर्विचेष्टितं दृष्ट्वा उषा प्राद्युम्निमातुरा।
रुरोद बाष्पदरुद्धाक्षी तामाह रुदतीं पुन:।।200।।