मायामाश्रित्य युध्यस्व् नायं वध्योऽन्यथा भवेत्।
आत्मानं मां च रक्षस्व प्रमादात् किमुपेक्षसे।।166।।
वध्यातामयमद्यैव न न: सर्वान्विनाशयेत्।
अन्यांशश्च शतशो हत्वा उषां नीत्वा व्रजिष्यति।।167।।
कुम्भाण्डवचनैरेवं दानवेन्द्र: प्रणोदित:।
वाचं रुक्षामभिक्रुद्ध: प्रोवाच वदतां वर:।।168।।
एषोऽहमस्य विदधे मृत्युं प्राणहरं रणे।
आदास्याम्यहमेतं वै गरुत्मानिव पन्ननगम्।।169।।
इत्येवमुक्वा सरथ: सध्वज: साश्वसारथि:।
गन्धर्वनगराकारस्तमत्रैवान्त रधीयत।।170।।