ज्वलनादित्यसंकाशां यमदण्डोग्रदर्शनाम्।
प्राहिणोत् तामसंगेन महोल्कां ज्वलितामिव।।161।।
तामापतन्तीं सम्प्रेसक्ष्य् जीवितान्तकरीं तदा।
सोऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तम:।।162।।
निर्बिभेद ततो बाणं तया शक्त्या महाबल:।
सा भित्वा तस्य देहं वै प्राविशद् धरणीतलम्।।163।।
सा गाढविद्धो व्यथितो ध्वजयष्टिं समाश्रित:।
ततो मूर्च्छा भिभूतं तं कुम्भाण्डो वाक्यमब्रवीत्।।164।।
उपेक्ष से दानवेन्द्र किमेवं शत्रुमुद्यतम्।
लब्धलक्षो ह्ययं वीरो निर्विकारोऽद्य दृश्यते।।165।।