चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने।
कुलशीलाभिजनतो नाम किं चास्य भामिनि।
तत: पश्चाद् विधास्यामि कार्यस्यास्य विनिश्चयम्।।71।।
चित्रलेखोवाच
अयं त्रैलोक्यनाथस्य नप्ता कृष्णस्य धीमत:।
भर्ता तव विशालाक्षि प्राद्युम्निर्भीमव्रिकम:।।72।।
न ह्यस्ति त्रिषु लोकेषु सदृशोऽस्य् पराक्रमे।
उत्पाट्य पर्वतानेव पर्वतैरेष शातयेत्।।73।।
धन्यासस्यनुगृहीतासि यस्यास्ते् यदुपुंगव:।
त्र्यक्षपत्या समादिष्ट: सदृश: सज्जन: पति:।।74।।
उषोवाच
त्वमेवात्र विशालाक्षि योग्या् भव वरानने ।
न शक्या हि गतिश्चान्या अगत्या मे गतिर्भव।।75।।