सा चित्रलेखया प्रोक्ता उषा हितचिकीर्षया।
क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम्।।61।।
तत: कुशलहस्तयत्वांद् यथालेख्यं समन्तत: ।
इत्युक्वा सप्तरात्रेण कृत्वा लेख्यतगतांस्तु तान्।।62।।
चित्रपट्टगतान् मुख्यानानयामास शोभना।
तत: प्रास्तीर्य पट्टं सा चित्रलेखा स्वायंकृतम्।।63।।
उषायै दर्शयामास सखीनां तु विशेषत:।
एते देवेषु ये मुख्यास्तथा दानववंशजा:।।64।।
किन्नरोरगयक्षाणां राक्षसानां समन्तत:।
गन्धर्वासुर दैत्यानां ये चान्ये भोगिन: स्मृता:।।65।।