न कुलेन न वर्णेन न शीलेन न रूपत:।
न देशतश्च विज्ञात: स हि चौरो मया सखि।।56।।
किं तु कर्तुं यथा शक्यं बुद्धिपूर्वं मया सखि।
प्राप्तं च श्रृणु मे वाक्यं यथा काममवाप्स्यसि।।57।।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
ये विशिष्टा: प्रभावेण रूपेणाभिजनेन च।।58।।
यथाप्रभावं तान् सर्वानालिखिष्यापम्यहं सखि।
मनुष्यलोके ये चापि प्रवरा लोकविश्रुता:।।59।।
सप्त्रत्रेण ते भीरु दर्शयिष्यामि तानहम् ।
ततो विज्ञाय पादस्थं भर्तारं प्रतिपत्यसे।।60।।