का व्यलथा ते मुखे स्वेदो नासाग्रे च विराजते।
नीहारबिन्दव: पद्मे राजन्ते शरदागमे।।41।।
सम्पूर्णचन्द्र प्रतिमं मुखं चन्द्रो यथा घने।
न शोभते तु विच्छायं किमर्थं कारणं वद।।42।।
श्वाभसान् मुञ्चसि बाले त्वंन रतिं यासि भावत:।
गृहाण भोजनं दिव्यंन यत् ते मनसि वर्तते।।43।।
ताम्बूलं रोचते पूर्वं तत किमर्थं न गृह्यते।
मिष्टानि यानि वस्तूनि दुर्लभानीतरैर्जनै:।।44।।
गृहाण देवि उत्तिष्ठ वद पीडां शररीजाम्।
इति कोलाहलं श्रुत्वा उषावेश्मशसमुद्भवम्।।45।।
दासीभि: कीर्तितं तत्र मातुरग्रे पृथक् पृथक्।