राजपुत्री यदा देवि समायाता गृहे सती।।46।।
जलक्रीडाविहाराच्च मूकेव परिलक्ष्यते।
अतो दासीजना देवि वदामस्त्वां वयं जना:।।47।।
को मोह: किमिदं मौनं क: स्वापो म्लानता कथम्।
विचार्य भिषजो देवि दिश्यदन्तां कष्टशान्तये।।48।।
शिरीषपुष्पसदृशं यच्छरीरं सुकोमलम्।
तत् कथं सहते देवि व्याधिभारं वरानने।।49।।
इति श्रुत्वा तदा देवी सत्त्वरा हंसगामिनी।
प्राप्य देशमुषा यत्र किमिदं कष्टधलक्षणम्।।50।।