कस्मादिदं समुत्पन्नं दु:खसाध्यं मनोरमे।
त्वमन्मनोऽनुगतं वाक्यं वदन्त्येतास्तु सारिका:।।36।।
शुका नीलतमा: सुभ्रु पठन्ति हि पुमानिव।
प्रह्लादजननं वाक्यं किमर्थं नाद्य भाषसे।।37।।
तव तातो महावीरो देवानामपि दुर्जय:।
तस्यातग्रे तिष्ठिते कोऽपि न भूमौ वरवर्णिनि।।38।।
बले: पुत्रो महावीरो बाणो हि दुरतिक्रम:।
जितामरावतीकं च नगरं शोणितह्वयम्।
यत्र संतिष्ठते देव: शूलहस्तो महेश्वर:।।39।।
पुत्रोऽयमिति जानीहि गिरिजां योऽब्रवीद्धर:।
बाणं प्रति महादेवस्तव तातमुषे श्रृणु।।40।।