सा बाला मोहिता राजन कामेन परिपीडिता।
उपचर्यन्ति तां सख्यो विज्वरामपि सज्वराम्।।31।।
तप्यते हृदयं तस्या लेपितं चन्दानेन च।
कपोले पाण्डिमाचिह्नं नेत्रे जलसमन्विते।।32।।
जृम्भणं च तथा स्वाेप देहे तस्या व्यवर्धत।
पद्मिनीकन्दचूर्णानि शीतलानि मुहुर्मुहु:।।33।।
क्षिपन्ति सख्यो हृदये पीडिते मन्माथाग्निना।
व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुन: पुन:।।34।।
का व्यथा कि शरीरं ते किमिदं तव भामिनि।
किं तुभ्यं रोचते देवि तदाख्याहि वरानने।।35।।