कुम्भांण्डश्चिन्तमयाविष्टो राजवेश्माभ्ययात् तदा।
अचिन्तंयच्च तत्त्वार्थं तैस्तैजरुत्पातदर्शनै:।।76।।
राजा प्रमादी दुर्बुद्धिर्जितकाशी महासुर:।
युद्धमेवाभिलषते न दोषान्मन्यते मदात्।।77।।
महोत्पातभयं चैव न तन्मिथ्या भविष्यति।
अपीदानीं भवेन्मिथ्या सर्वमुत्पातदर्शनम्।।78।।
इत त्वांस्ते त्रिनयन: कार्तिकेयश्च वीर्यवान्।
तेनोत्पन्नोऽपि दोषो न: कच्चिद् गच्छेत् पराभवम्।।79।।
उत्पतन्नदोषप्रभव: क्षयोऽयं भविता महान्।
दोषाणां न भवेन्नानश इति मे धीयते मति:।।80।।