उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम्।
तव राज्यविनाशाय भविष्यन्ति न संशय:।।71।।
वयं चान्ये च सचिवा भृत्यास्ते च तवानुगा:।
क्षयं यास्यदन्ति नचिरात् सर्वे पार्थिव दुर्नयात्।।72।।
यथा शक्रध्वजतरो: स्वदर्पात पतनं भवेत्।
बलमाकांक्षतो मोहात् तथा बाणस्य नर्दत:।।73।।
देवदेवप्रसादात् तु त्रैलोक्यविजयं गत:।
उत्सेकाद् दृश्य ते नाशो युद्धाकांक्षी ननर्द ह।।74।।
बाण: प्रीतमनास्वेवं पपौ पानमनुत्तमम्।
दैत्यदानवनारीभि: सार्धमुत्तमविक्रम:।।75।।