यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गत:।
यदर्थं च महद् युद्धं तत् सर्वमखिलं श्रृणु।।11।।
दृष्ट्वा वपु: कुमारस्य क्रीडतश्च महात्मन:।
बलिपुत्रो महावीर्यो विस्मयं परमं गत:।।12।।
तस्य बुद्धि: समुत्पन्ना तपश्चर्तुं सुदुष्करम्।
रुद्रस्याराधनार्थाय देवस्यत स्यां यथा सुत:।।13।।
ततोऽग्लयपयदात्मानं तपसा श्लाघते च स:।
देवश्च परमं तोषं जगाम च सहोमया।।14।।
नीलकण्ठ: परां प्रीतिं गत्वा चासुरमब्रवीत्।
वरं वरय भद्रं ते यत् ते मनसि वर्तते।।15।।