असंख्यैश्च महाकायैर्महाबलशतैर्वृत:।
वासुदेवेन स कथं बाण: संख्ये पराजित:।।6।।
संरब्धवश्चैव युद्धार्थी जीवन्मुक्त: कथं च स:।
वैशम्पायन उवाच
श्रृणुष्वासवहितो राजन् कृष्णस्या मिततेजस:।।7।।
मनुष्यलोके बाणेन यथाभूद् विग्रहो महान्।
वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान्।।8।।
बलिपुत्रो रणश्लाघी जित्वा जीवन् विसर्जित:।
यथा चास्य वरो दत्त: शंकरेण महात्मना।।9।।
नित्यं सांनिध्यतां चैव गाणपत्यं तथाक्षयम्।
यथा बाणस्य तद् युद्धं जीवन्मुक्तो यथा च स:।।10।।
यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गत:।