तं प्रविष्टोत हृषीकेशो दीप्तं तेजोनिधिं तदा।
रथ एव स्थितश्चाहं स च ब्राह्मणसत्तम:।।26।।
स मुहूर्तात् तत: कृष्णो निश्चक्राम तदा प्रभु:।
चतुरो बालकान् गृह्य ब्राह्मणस्यात्मजांस्तदा।।27।।
प्रददौ ब्राह्मणायाथ पुत्रान् सर्वांञ्जनार्दन:।
त्रय: पूर्वं हृता ये च सद्योजातश्च बालक:।।28।।
प्रहृष्टो ब्राह्मणस्तत्र पुत्रान् दृष्ट्वा पुन: प्रभो।
अहं च परमप्रीतो विस्मितश्चाभवं तदा।।29।।
ततो वयं पुन: सर्वे ब्राह्मणस्य च ते सुता:।
यथा गता निवृत्ता: स्म तथैव भरतर्षभ।।30।।