तत: कदाचिद् दु:खेन रथमूहुस्तुरगमा:।
पंकभूतं हि तिमिरं स्पदर्शाद् विज्ञायते नृप।।21।।
अथ पर्वतभूतं तत् तिमिरं समपद्यत।
तदासाद्य महाराज निष्प्रयत्ना हया: स्थिता:।।22।।
ततश्चदक्रेण गोविन्द: पाटयित्वा तमस्तदा।
आकाशं दर्शयामास रथपन्थानमुत्तमम्।।23।।
निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा।
भविष्यामीति संज्ञा मे भयं च विगतं मम।।24।।
ततस्तेज: प्रज्वलितमपश्यं तत् तदाम्बरे।
सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम्।।25।।