उपस्थाय च गोविन्दं किं कुर्मेत्यब्रुवंस्तदा।
तांश्चैव प्रतिजग्राह विधिवन्मधुसूदन:।।16।।
तानुवाच हृषीकेश: प्रणामावनतान् स्थितान्।
विवर गच्दृतो मेऽद्य रथमार्ग: प्रदीयताम्।।17।।
ते कृष्णस्य वच: श्रुत्वा प्रतिगृह्य च पर्वता:।
प्रददु: कामतो मार्गे गच्छतो भरतर्षभ।।18।।
तत्रैवान्तर्हिता: सर्वे तदाश्चर्यतरं मम।
असक्तं च रथो याति मेघजालेष्विवांशुमान्।।19।।
सप्त द्वीपान् ससिन्धुश्च सप्त सप्त गिरीनथ।
लोकालोक तथातीत्य विवेश सुमहत्तम:।।20।।