तत: स्म द्वारकां प्राप्ता: क्षणेन नृपसत्तम।
असम्प्राप्तेऽर्धदिवसे विस्मितोऽहं पुन: पुन:।।31।।
सपुत्रं भोजयित्वा तु द्विजं कृष्णो महायशा:।
धनेन वर्षयित्वा गृहं प्रास्थापयत तदा।।32।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासदेवमाहात्म्ये ब्राह्मणपुत्रानयने त्रयोदशाधिकशततमोऽध्याय:।