शंखचक्रगदापाणिं गरुडस्योनपरि स्थितम्।
दृष्ट्वा जहृषिरे पौरा भास्करोपमतेजसम्।।11।।
ततस्तूतर्यप्रणादश्च भेरीणां च महास्वना:।
जज्ञिरे सिंहनादाश्च सर्वेषां पुरवासिनाम्।।12।।
ततस्तेे सर्वदाशार्हा: सर्वे च कुकुरान्धका:।
प्रीयमाणा: समाजग्मुरलोक्य मधुसूदनम्।।13।।
वासुदेवं पुरस्कृरत्य शंखतूर्यरवै: सह।
उग्रसेनो ययौ राजा वसुदेवनिवेशनम्।।14।।
आनन्दिनी पर्यचरत् स्वेषु वेश्मसु देवकी।
रोहिणी च यशोदा च आहुकस्य च या: स्त्रिय:।।15।।