सलज्जाधेमुखी किंचित् किंचित् तिर्यगवेक्षिणी।
प्रभावती तदा तस्थौ निश्चलं कमलेक्षणा।।6।।
करेणाध: प्रदेशे तां चारुभूषणभूषिताम्।
स्पृष्ट्वाच वरारोहां रोमांञ्चिततनुस्तत:।।7।।
मनोरथशतैर्लब्धं किं पूर्णेन्दुसमप्रभम्।
अधोमुखं मुखं कृत्वा न मां किंचित् प्रभाषसे।।8।।
प्रभोपमर्दं मा काषींर्वदनस्य वरानने ।
साध्वसं त्यज्यतां भीरु दास: साध्वनुगृह्यताम्।।9।।
न कालमिव पश्यामि भीरु भीरुत्वमुत्सृज।
याचाम्येषोऽञ्जलिं कृत्वा प्राप्तकालं निबोध मे।।10।।