ततो वज्रायुधो वज्रमशनिं च पुन: पुन:।
मुमोच गरुडे राजन्नैशरावतरिपौ नृप।।96।।
वज्राशनिनिपातांस्ता्न सेहे शक्रस्य पक्षिराट्।
अवध्यो बलिनां श्रेष्ठो निसर्गेण तपोबलात्।।97।।
मुमोच पक्षमेकैकं मानयन्नशनिं सदा।
वज्रं च देवराज्ञोऽथ भ्रातु: कश्यपसम्भव:।।98।।
आक्रम्यदमाणस्तार्क्ष्येण न्यमज्जेन्नपते गिरि:।
विवेश धरणीं राञ्चछीर्यमाण: समन्तगत:।।99।।
चुकूज बहुमानेन कृष्णयस्य स तु पर्वत:।
तं चाद्राक्षीत् तत: कृष्ण्: किंचिच्छेषमधोक्षज:।।100।।