तं मुक्वाक्ष गरुडेनाथ तस्थौ देवो विहायसि।
प्रद्युम्नं च तदोवाच सर्वकृल्लोकभावन:।।101।।
इतो द्वारवतीं गत्वा रथमानय मा चिरम्।
सदारुकं महाबाहो मत्तेतजोबलमाश्रित:।।102।।
वक्तव्यो बलभद्रश्च राजा च कुकुराधिप:।
श्वो जित्वेतन्द्रं त्वागमिष्ये द्वारकामिति मानद।।103।।
तथेत्युक्वावा तु धर्मात्मा प्रद्युम्न: पितरं विभु:।
गत्वा यथोक्ततमुक्वाच च यादवेन्द्रबलावुभौ।।104।।
नाडिकान्तहरमात्रेण पुनस्तंश देशमाययौ।
दारुकेण समायुक्तंर रथमास्थाय भारत।।105।।
इति श्री महाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे श्रीकृष्णेन्द्रयुद्धे त्रिसप्ततितमोऽध्याय:।