वक्तव्यं सर्वथा सद्भिरप्रियं चापि यद्धितम्।
आनृण्यंमेतत् स्नेहस्य सद्भिरेवादृतं पुरा।।6।।
अनृते धर्मभग्नेत च न शुश्रूषति चाप्रिये।
न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिता:।।7।।
सर्वथा देव वक्तव्यंं श्रूयतां श्रृण्वतां वर।
श्रुत्वा च कुरु सर्वज्ञ मम श्रेयस्करं वच:।।8।।
अन्योन्याभेदो भ्रातृणां सुहृदां वा बलान्त।
भवत्यावनन्द कृद् देव द्विषतां नात्र संशय:।।9।।
हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर।
विपरीतं च तद् बुद्ध्या नित्यं बुद्धिमतां वर।।10।।