देवीभिर्धर्मनित्याभिर्धर्मार्थममरोत्ताम।
दत्तं श्रुत्वाभिकांक्षन्ति दातुं पत्यो त मम प्रभो।।6।।
पुण्यारर्थं दानधर्मार्थं मम प्रीत्यर्थमेव च।
आनाययद: द्वारवतीं पारिजातं महाद्रुमम्।।7।।
दत्ते दाने पुन: स्वर्ग तरुं त्वं नेतुमर्हसि।
स वाच्य एवं भगवान् बलभिद् भगवंस्त्वया।।8।।
तथा तथा प्रयत्नश्चन कार्योऽस्मिन् मुनिसत्तम।
यथा तरुवरं दद्यात् पारिजातं सुरेश्वर:।।9।।
तत्र दूतगणं तावत् पश्यामस्ते तपोधन।
सम्भाव्या सर्वकृत्यानां सम्पद्धि त्वयि मे मता।।10।।