एवं नारायणेनोक्तो नारदो भगवानृषि:।
प्रहस्योयवाच केशिघ्नमिदं वाक्यं तपोधन:।।11।।
बाढमेवं प्रवक्ष्यामि यदुमुख्य सुरेश्वसरम्।
न तु दास्यरति देवेन्द्रय: पारिजातं कथंचन।।12।।
मन्दरं पर्वतश्रेष्ठं दानवैस्त्रिदशैस्तथा।
निक्षिप्य तोयधौ पूर्वं पारिजात: समाहृत:।।13।।
मन्दषरात् पर्वतश्रेष्ठातन्नसयितुं प्रेषित: पुरा।
पारिजातं हरेणपि लोककर्त्रा जनार्दन।।14।।
स्वयं विज्ञापितो गत्वा तत: शक्रेण शंकर:।
आक्रीडद्रुम उद्याने शच्या: स्यादिति याचित:।।15।।