शिरो वहामि चेष्टत्वात् तवाहं देव गर्विता।
सर्वसीमन्तिनीमध्ये स्पृनहणीयास्मि सर्वथा।।6।।
साहमद्यावहास्यास्मि सपत्नीमनां जनस्य च।
इति प्रेष्याभिराख्यातं श्रुत्वा् तथ्यं ततस्त त:।।7।।
यत् पारिजातकुसुमं दत्तवान् नारदस्तव।
तत् किलेष्टतजने दत्तं त्वयाहं परिवर्जिता।।8।।
रत्नातिशयदानेन तस्यामभ्यधिक: किल।
स्नेहश्चद बहुमानेश्च प्रकाशं गमितस्त्वया।।9।।
तामस्तौषीत् समक्षं ते प्रियां स किल नारद:।
तमश्रौषीश्चत हृष्टहस्वं प्रियाया: संस्तवं किल।।10।।