स्तोतव्यो यदि तावत् स नारदेन तवाग्रत:।
दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दित:।।11।।
प्रणयस्य रसं दत्वा पश्चात्ताप: प्रभो यदि।
अनुज्ञां मे प्रयच्छस्वत तप: कर्तुं प्रसीद मे।।12।।
स्वप्नेनापि न दृष्ट्वाहं श्रद्दध्यां पुष्करेक्षण।
यदन्यदेव निर्वृत्तमश्रौषं पश्यतस्तव।।13।।
कामं कामोऽस्तुष तस्यैव मुनेरतुलतेजस:।
अत्र मन्युसस्तु मे देव सांनिध्यं तव तत्र यत्।।14।।
मानार्थं जीव्यते लोके सद्भिरित्युंक्तंवानसि।
तदेवं सति नेच्छामि जीवितुं मानवर्जिता।।15।।