एवंवादिनमात्मेष्टं सत्यभामा जनार्दनम्।
शनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम्।।46।।
मदीयस्वमिति ह्यासीन्मम नित्यं मन: प्रभो।
अद्य साधारणं स्नेहं त्वयि तावद् गतास्य्महम्।।47।।
नाज्ञासिषमहं पूर्वमनित्यं कालपर्ययम्।
अद्य लोकगतिं कृत्नानमवगच्छामि न ध्रुवम्।।48।।
अमृताया द्वितीयोऽपि जन्मौ हि मम सर्वथा।
किमत्र बहुनोक्तेन हृदयं वेद्मि तेऽच्युनत।।49।।
वांमात्रमेव पश्यामि माधुर्यं सम्प्रयुज्यते।
मयि स्नेहश्च् कृतकस्त्वान्यत्र न कृत्रिम:।।50।।