नृपाणां भेदमालोक्य भीष्मको राजसत्तम:।
व्यातिक्रममचिन्त्यंभ च कृतं नृपतिना स्वेयम्।।65।।
विचिन्त्य मनसा राजा दह्यमानेन चेतसा।
जगाम नरदेवानां समाजे प्रतिबोधितुम्।।66।।
एतस्मिन्नन्तरे दूता: सम्प्राप्ता: क्रथकैशिकौ।
लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम्।।67।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे एकोनपंचाशत्तिमोऽध्याय:।