व्यामिश्रं तद्वलं भाति मत्तद्विपसमाकुलम्।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा।।11।।
सबलास्तेे महीपाला जरासंधपुरोगमा:।
परिवार्य गिरिं सर्वे निवेशायोपचक्रमु:।।12।।
बभौ तस्य निविष्टस्य बलश्री: शिबिरस्य वै।
शुक्ले पर्वणि पूर्णस्य यथा रूपं महोदधे:।।13।।
वीतरात्रे तत: काले नृपास्ते कृतकौतुका:।
आरोहणार्थं शैलस्य समेता युद्धलालसा:।।14।।
समवायीकृता: सर्वे गिरिप्रस्थेषु ते नृपा:।
निविष्टात: मन्त्रयामासुर्युद्धकालकुतूहला:।।15।।