वर्तते सोत्सवस्तत्र अनिरुद्धस्य वेश्मनि।
गृहे श्रीधन्वनश्चैव शुभस्तत्र प्रवर्तते।।6।।
वादयन्ति पुरे तत्र नार्यो मदवशं गता:।
नृत्यन्ते चाप्सरास्तत्र गायन्ति च तथापरा:।।7।।
काश्चित् प्रमुदितास्तत्र काश्चिदन्योन्यामब्रुवन्।
नानावर्णाम्बरधरा: क्रीडामानास्ततस्तत:।।8।।
अभियान्ति ततोऽन्योन्यं काश्चिन्मदवशात स्वयम्।
क्रीडन्ति काश्चिदक्षैस्तु हर्षादुत्फुल्लो्चना:।।9।।
मायूरं रथमारुह्य सखीभि: परिवारिता।
उषा सम्प्रेषिता देव्यात रुद्राण्या प्रतिगृह्यताम्।।10।।