निशम्य बाणगावस्तु तासु चक्रे मनस्तदा।
आस्थितो गरुडं प्राह स तु लोकादिरव्यय:।।46।।
श्रीकृष्ण उवाच
वैनतेय प्रयाहि त्वं यत्र बाणस्य गोधनम्।
यासां पीत्वाह किल क्षीरममृतत्त्व मवाप्नुयात्।।47।।
आह मां सत्याभामा च बाणगावो ममानय।
यासां पीत्वा किल क्षीरं न जीर्यन्ति महासुरा:।।48।।
विजराश्च जरां त्यक्तवा भवन्ति किल जन्तव:।
ता आनयस्व् भद्रं ते यदि धर्मो न लुप्यते।।49।।
अथवा कार्यलोपो वै मैव तासु मन: कृथा:।
इति मामब्रवीत् सत्या् ताश्चैता विदिता मम।।50।।