प्रस्थितश्च स तेजस्वीं गरुड: पततां वर:।
उन्मूलयंस्तचरुगणान् कम्पतयंश्चापि मेदिनीम्।।41।।
आकुलाश्च दिश: सर्वा रेणुध्वशस्तमिवाम्बरम्।
गरुडे सम्प्रयातेऽभून्मरन्दरश्मिर्दिवाकर:।।42।।
ततस्ते दीर्घमध्वानं प्रययु: पुरुषर्षभा:।
आरुह्य गरुडं सर्वे जित्वा बाणं महौजसम्।।43।।
ततोऽम्बरतलस्थास्ते वारुणीं दिशमास्थिता:।
अपश्यन्तर महात्माेनो गावो दिव्यापय: प्रदा:।
वेलावनविचारिण्यो नानावर्णा: सहस्राश:।।44।।
अवज्ञाय तदा रूपं कुम्भाण्डवचनाश्रयात्।
कृष्ण: प्रहरतां श्रेष्ठस्तत्त्वतोऽर्थविशारद:।।45।।