पिबतां मधु माध्वीकं भवतां प्रीतिपूर्वकम्।।141।।
कालो यास्यत्यविरतं विषयेष्वेव सज्जताम्।
बाहूनां संश्रयात् सर्वे वयमस्य महात्मन:।।142।।
प्रणष्टशोका रंस्याम: सर्वे एव यथासुखम्।
एवं स्तुत्वा सहस्राक्ष: केशवं दानवान्तकम्।।143।।
आपृच्छ्य तं महाभाग: सवेदेवगणैर्वृत:।
तत: पुन: परिष्वेज् कृष्णं लोकनमस्कृतम्।
पुरंदरो दिवं यात: सह देवमरुद्गणै:।।144।।
ऋषयश्च महात्मा नो जयाशीर्भिर्महौजसम्।
यथागतं पुनर्याता यक्षराक्षसकिंनरा:।।145।।