स मर्माभिहत: संख्येे प्रमुमोहाल्पचेतन:।।71।।
तं दृष्ट् मूर्च्छितं बाणं प्रहारपरिपीडितम्।
प्रासादवरश्रृंगस्थो नारदो मुनिपुंगव:।।72।।
उत्थायापश्यत तदा कक्ष्यापस्फोटनतत्पर:।
वादयानो नखांश्चै्व दिष्ट्या दिष्ट्ये ति चाब्रवीत्।।73।।
अहो मे सफलं जन्म जीवितं च सुजीवितम्।
दृष्टं मे यदिदं चित्रं दामोदरपराक्रमम्।।74।।
जय बाणं महाबाहो दैतेयं देवकिल्बिषम्।
यदर्थमवतीर्णोऽसि तत् कर्म सफलीकुरु।।75।।