श्रीरुद्र उवाच
एवं भवतु भद्रं ते न रुजा प्रभविष्यति।
अक्षतं तव गात्रं तु स्वस्थावस्थं भविष्यति।।156।।
चतुर्थं ते वरं दद्मि वृणीष्व यदि कांक्षसि।
न तेऽहं विमुखस्तात प्रसादसुमुखो ह्यहम्।।157।।
बाण उवाच
प्रमाथगणवंश्यस्य प्रथम: स्यामहं विभो।
महाकाल इति ख्यातिं गच्छेयं शाश्वती: समा:।।158।।
वैशम्पायन उवाच
एवं भविष्यतीत्याह बाणं देवो महेश्वर:।
दिव्यरूपोऽक्षतो गात्रैर्नीरुजस्तु ममाश्रयात्।।159।।
ममातिसर्गाद् बाण त्वं भव चैवाकुतोभय:।
भूयस्ते पचमं दद्मि प्रख्यातबलपौरुष।
पुनर्वरय भद्रं ते यत् ते मनसि वर्तते।।160।।