महादेव उवाच
तुल्योऽसि दैवतैर्बाण न मृत्युस्तव विद्यते।
अथापरं वृणीष्वाद्य अनुग्राह्योऽसि मे सदा।।151।।
बाण उवाच
यथाहं शोणितैर्दिग्धो भृशार्तो व्रणपीडित:।
भक्ता नां नृत्यतां देव पुत्रजन्म भवेद् भव।।152।।
श्रीहर उवाच
निराहारा: क्षमावन्त: सत्यार्जवसमाहिता:।
मद्भक्ता येऽपि नृत्यन्ति तेषामेवं भविष्यरति।।153।।
तृतीयं त्वचमथो बाण वरं वर मनोगतम्।
तद् विधास्यामि ते पुत्र सफलोऽस्तुे भवानिह।।154।।
बाण उवाच
चक्रताडनजा घोरा रुजा तीव्रा हि मेऽनघ।
वरेणासौ तृतीयेन शान्तिं गच्छहतु मे भव।।155।।