सर्वेषामस्त्र वीर्याणां वारणं घातनं तथा।
चक्रमप्रतिचक्रस्य् लोके ख्यातं महात्मन:।।11।।
अस्त्रं ब्रह्मशिरस्तेन निष्प्रभं कृतमोजसा।
घनैरिवातपापाये सवितुर्मण्डलं यथा।।12।।
ततो निष्प्रभतां याते नष्टवीर्ये महौजसि।
तस्मिन ब्रह्मशिरस्यस्त्रे क्रोधसंरक्तसलोचन:।।13।।
गुह: प्रजज्वाल रणे हविषेवाग्निरुल्बण:।
शत्रुघ्नीं ज्वलितां दिव्यां शक्तिं जग्राह कांचनीम्।।14।।
अमोघा दयितां घोरां सर्वलोकभयावहाम्।
तां प्रदीप्तां महोल्काभां युगान्ताग्निसमप्रभाम्।
घण्टामालाकुलां दिव्यां चिक्षेप रुषितो गुह:।।15।।
ननाद बलवच्चा्पि नादं शत्रुभयंकरम्।