कर्तारौ चापहर्तारौ स्थावरस्य चरस्य तु।
जगत: शुभकर्तारौ प्रभविष्णू महेश्वरौ।।36।।
कर्तृकारणकर्तारौ कर्तृकारणकारकौ।
भूतभव्यभवौ देवौ नारायण महेश्वरौ।।37।।
जगत: पालकावेतावेतौ सृष्टिकरौ स्मृतौ।
एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च।
एतत् परतरं गुह्यं कथितं ते पितामह ।।38।।
यश्चैनं पठते नित्यं यश्चैनं श्रृणुयान्नर: ।
प्राप्नोति परमं स्थानं विष्णुमरुद्रप्रसादजम्।।39।।
देवौ हरिहरौ स्तोष्ये ब्रह्मणा सह संगतौ।
एतौ च परमौ देवौ जगत: प्रभवाप्ययौ।।40।।